सूत्रम्
देविक्रुशोश्चोपसर्गे॥ ३।२।१४७
काशिका-वृत्तिः
देविक्रशोश् च उपसर्गे ३।२।१४७
देवयतेः क्रुशेश्च उपसर्गे उपपदे वुञ् पत्ययो भवति। आदेवकः। परिदेवकः। आक्रोशकः। परिक्रोशकः। उपसर्गे इति किम्? देवयिता। क्रोष्टा।
बाल-मनोरमा
देविक्रुशोश्चोपसर्गे ९२९, ३।२।१४७
देवीक्रुशोः। देवीति चुरादिण्यन्तस्य, "दिवु क्रीडा"इत्यस्य च ग्रहणम्। उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् स्यादित्यर्थः।
तत्त्व-बोधिनी
देविक्रुशोश्चोपसर्गे ७६३, ३।२।१४७
देविक्रुशोः। दीव्यतेर्हेतुमण्ण्यन्तस्य, दिवु कूजने इति चुरादिण्यन्तस्य च ग्रहणम्।